|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.10. अध्यायः 010
Mahabharata - Sabha Parva - Chapter Topics
कुबेरसभावर्णनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
नारद उवाच।
सभा वैश्रवणी राजञ्शतयोजनमायता।
विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा॥ 2-10-1(11672)
तपसा निर्जिता राजन्स्वयं वैश्रवणेन सा।
शशिप्रभा प्रावरणा कैलासशिखरोपमा॥ 2-10-2(11673)
गुह्यकैरुह्यमाना सा खे विषक्तेव शोभते।
दिव्या हेममयैरुच्चैः प्रासादैरुपशोभिता॥ 2-10-3(11674)
महारत्नवती चित्रा दिव्यगन्धा मनोरमा।
सिताभ्रशिखराकारा प्लवमानेव दृश्यते। 2-10-4(11675)
दिव्या हेममयै रङ्गैर्विद्युद्भिरिव चित्रिता।
तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः॥ 2-10-5(11676)
स्त्रीसहस्रैर्वृतः श्रीमानास्ते ज्वलितकुण्डलः।
`सह पत्न्या महाराज ऋद्ध्या सह विराजते। 2-10-6(11677)
सर्वाभरणभूषिण्या वपुष्मत्या धनेश्वरः'।
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते।
दिव्यपादोपधाने च निषण्णः परमासने॥ 2-10-7(11678)
मन्दाराणामुदाराणां वनानि परिलोडयन्।
सौगन्धीकवनानां च गन्धं गन्धवहो वहन्॥ 2-10-8(11679)
नलिन्याश्चालकाख्याया नन्दनस्य वनस्य च।
शीतो हृदयसंह्लादी वायुस्तमुपसेवते॥ 2-10-9(11680)
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः।
दिव्यतानैर्महाराज गायन्तिस्म सभागताः॥ 2-10-10(11681)
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता।
चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला॥ 2-10-11(11682)
विश्वाची सहजन्या च प्रम्लोचा उर्वशी ॥ 2-10-12(11683)
वर्गा च सौरभेयी च समीची बुद्बुदा लता।
एताः सहस्रशश्चान्या नृत्तगीतविशारदाः॥ 2-10-13(11684)
उपतिष्ठन्ति धनदं गन्धर्वाप्सरसां गणाः।
अनिशं दिव्यवादित्रैर्नृत्तगीतैश्च स सभा॥ 2-10-14(11685)
अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः।
किन्नरा नाम गन्धर्वा नरा नाम तथाऽपरे॥ 2-10-15(11686)
माणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः।
कशेरको गण्डकण्डूः प्रद्योतश्च महाबलः॥ 2-10-16(11687)
कुस्तम्बरुः पिशाचश्च गजकर्णो विशालकः।
वराहकर्णस्ताम्रौष्ठः फलकक्षः फलोदकः॥ 2-10-17(11688)
हंसचूडः शइखावर्तो हेमनेत्रो विभीषणः।
पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः॥ 2-10-18(11689)
वृक्षवास्यनिकेतश्च चीरवासाश्च भारत।
एते चान्ये च बहवो यक्षाः शतसहस्रशः॥ 2-10-19(11690)
सदा भगवती लक्ष्मीस्तत्रैव नलकूबरः।
अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः॥ 2-10-20(11691)
ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयोऽपरे।
क्रव्यादाश्च तथैवान्ये गन्धर्वाश्च महाबलाः॥ 2-10-21(11692)
उपासते महात्मानं तस्यां धनदमीश्वरम्।
भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः॥ 2-10-22(11693)
उमापतिः पशुपतिः शूलभृद्भगनेत्रहा।
त्र्यम्बको राजशार्दूल देवी च विगतक्लमा॥ 2-10-23(11694)
वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्महारवैः।
मेदोमांसाशनैरुग्रैरुग्रधन्वा महाबलः॥ 2-10-24(11695)
नानाप्रहरणैरुग्रैर्वातैरिव महाजवैः।
वृतः सखायमन्वास्ते सदैव धनदं नृप॥ 2-10-25(11696)
प्रहृष्टाः शतशश्चान्ये बहुशः सपरिच्छदाः।
गन्धर्वाणां च पतयो विश्वावसुर्हहा हुहूः॥ 2-10-26(11697)
तुम्बुरुः प्रवतश्चैव शैलूषश्च तथाऽपरः।
चित्रसेनश्च गीतज्ञस्तथा चित्ररथोपि च॥ 2-10-27(11698)
एते चान्ये च गन्धर्वा धनेश्वरमुपासते।
विद्याधराधिपश्चैव चक्रधर्मा सहानुजैः॥ 2-10-28(11699)
उपाचरति तत्र स्म धनानामीश्वरं प्रभुम्।
किन्नराः शतशस्तत्र धनानामीश्वरं प्रभुम्॥ 2-10-29(11700)
आसते चापि राजानो भगदत्तपुरोगमाः।
द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम्॥ 2-10-30(11701)
राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः।
सह यक्षैः सगन्धर्वैः सह सर्वैर्निशाचरैः॥ 2-10-31(11702)
विभीषणश्च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम्।
हिमवान्पारियात्रश्च विन्ध्यकैलासमन्दराः॥ 2-10-32(11703)
मलयो दर्दुरश्चैव महेन्द्रो गन्धमादनः।
इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्वतौ॥ 2-10-33(11704)
एते चान्ये च बहवः सर्वे मेरुपुरोगमाः।
उपासते महात्मानं धनानामीश्वरं प्रभुम्॥ 2-10-34(11705)
न्दीश्वरश्च भगवान्महाकालस्तथैव च।
शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास्तथा॥ 2-10-35(11706)
काष्ठः कुटी मुखो दन्ती विजयश्च तपोधिकः।
श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महाबलः॥ 2-10-36(11707)
धनदं राक्षसाश्चान्ये पिशाचाश्च उपासते।
पारिषदैः परिवृतमुपायान्तं महेश्वरम्॥ 2-10-37(11708)
सदा हि देवदेवेशं शिवं त्रैलोक्यभावनम्।
प्रणम्य मूर्ध्ना पौलस्त्यो बहुरूपमुमापतिम्॥ 2-10-38(11709)
ततोऽभ्यनुज्ञां सम्प्राप्य महादेवाद्धनेश्वरः।
आस्ते कदाचिद्भगवान्भवो धनपतेः सखा॥ 2-10-39(11710)
निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ।
सर्वान्निधीन्प्रगृह्याथ उपास्तां वै धनेश्वरम्॥ 2-10-40(11711)
सा सभा तादृशी रम्या मया दृष्टान्तरिक्षगा।
पितामहसभां राजन्कीर्तयिष्ये निबोध ताम्॥ ॥ 2-10-41(11712)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि दशमोऽध्यायः॥ 10॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-10-5 रङ्गैरितिच्छेदः॥ 2-10-39 आस्ते इत्यावृत्त्या योजनीयम्। यदा भवः कदाचित्कुबेरसभामध्यास्ते तदा कुबेरोऽपि भवादनुज्ञां प्राप्य तन्निकटे आस्ते उपविशति॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|